|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.45. अध्यायः 045
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन युद्धप्रस्थानसमये उत्तररथात्सिंहध्वजस्यावरोपणपूर्वकं स्वध्यानसंनिहितस्य हनुमद्ध्वजस्य रथे स्थापनम् ॥ 1 ॥ तथा स्वशङ्खादिशब्दश्रवणवित्रस्तस्योत्तरस्य समाश्वासनपूर्वकं रणायाभियानम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-45-0x(3199)(30314)
उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्।
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ॥ 4-45-1(30315)
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च।
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे ॥ 4-45-2(30316)
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् ।
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा ।
मनसा चिन्तयामास प्रसादं पावकस्य च ॥ 4-45-3(30317)
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत्।
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः ॥ 4-45-4(30318)
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम्।
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् ॥ 4-45-5(30319)
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः।
बद्धासिः सतलत्राणः प्रगृहीतशरासनः ।
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥ 4-45-6(30320)
सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् ।
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः ।
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः ॥ 4-45-7(30321)
[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः ।
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् ॥ 4-45-8(30322)
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम्।
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् ॥ 4-45-9(30323)
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव ।
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ]॥ 4-45-10(30324)
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् ॥ 4-45-11(30325)
तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च।
वानरस्य निनादेन रथनेमिस्वनेन च।
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः ॥ 4-45-12(30326)
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ ।
उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत् ॥ 4-45-13(30327)
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः ।
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे ॥ 4-45-14(30328)
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् ।
उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः ॥ 4-45-15(30329)
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप ।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥ 4-45-16(30330)
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः ।
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः ॥ 4-45-17(30331)
स त्वं कथमिवानेन शङ्खशब्देन भीषितः ।
विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥ 4-45-18(30332)
उत्तर उवाच। 4-45-19x(3200)
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः।
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः ॥ 4-45-19(30333)
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः।
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् ।
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् ॥ 4-45-20(30334)
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च।
अमानुषाणां शब्देन भूतानां निस्वसेन च।
रथनेमिप्रणादेन मनो कमे मुह्यते भृशम् ॥ 4-45-21(30335)
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च।
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥ 4-45-22(30336)
वैशम्पायन उवाच। 4-45-23x(3201)
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः ।
स मूढचेता वैराटिरर्जुनं समुदैक्षत ॥ 4-45-23(30337)
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ॥ 4-45-24(30338)
स्थिरो भव महाबाहो संज्ञां चात्मानमानय।
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च।
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥ 4-45-25(30339)
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः।
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान्।
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ॥ 4-45-26(30340)
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत्।
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्।
तं समाश्वासयामास पुनरेव धनञ्जयः । 4-45-27(30341)
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च।
गाण्डीवस्य च शब्देन पृथिवी समकम्पत ॥ ॥ 4-45-28(30342)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|